पूर्वम्: ४।१।७६
अनन्तरम्: ४।१।७८
 
सूत्रम्
यूनस्तिः॥ ४।१।७७
काशिका-वृत्तिः
यूनस् तिः ४।१।७७

युवन्शब्दात् प्रातिपदिकात् स्त्रियां तिः प्रत्ययो भवति। स च तद्धितसंज्ञो भवति। ङीपो ऽपवादः। युवतिः।
न्यासः
यूनस्तिः। , ४।१।७७

"ङीपोऽपवादः" इति। नकारान्तत्वात् "ऋन्नेभ्यो ङीप्" ४।१।५ इति प्राप्तस्य। अथेदन्तात् "इतो मनुष्यजातेः" (४।१।६५) इति ङीष् कस्मान्न भवति? अमनुष्यजातित्वात्। न हि युवतिशब्दो मनुष्यजातिवचनः, किं तर्हि? वयोवचनः। तथा हि यौवनावस्थायामेव स वत्र्तते, न बाल्यवृद्धत्वावस्थायाम्। न चैवंविधा जातिशब्दाः,ते हि सर्वावस्थासु व्युक्तिषु जातिनिबन्धना वत्र्तन्ते, गोशब्दादिवत्॥
बाल-मनोरमा
यूनस्तिः १६०, ४।१।७७

यूनस्तिः। "तद्धिता" इत्यनुवृत्तमेकवचनेन विपरणम्यते। तदाह--युवन्शब्दादित्यादि। "स्त्रिया"मिति शेषः। "समर्थना"मित्यतः प्राक्तदधिकारस्योक्तत्वादिति भावः। नान्तलक्षणङीपोऽपवादः। नन्वत्र तद्धितग्रहणानुवृत्तिव्र्यर्था। नच "कृत्तद्धिते"ति प्रातिपदिकत्वार्थं तदनुवृत्तिरिति वाच्यम्, प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात्सुबुत्पत्तिसिद्धेरित्यत आह--लिङ्गविशिष्टस्येति। युवतिरिति। स्वादिष्विति पदत्वात् "न लोप" इति नकारलोपः। अनुपसर्जनादित्येवेति। अनुवर्तत एवेत्यर्थः। बहुयुवेति। उपसर्जनत्वात्तिप्रत्ययाऽभावे नान्तलक्षणङीपः "अनो बहुव्रीहेः" इति निषेधे "डाबुभाभ्या"मिति डापि च रूपम्। ननु "युवतीभिः परिवृत" इत्यादौ कथं युवतीशब्द ईकारान्त इत्यत आह--युवतीति त्विति। "युमिश्रणे" इत्यस्माल्लटः शतरि, शपो लुकि, उवङि उगित्त्वान्ङीपि युवतीशब्दो व्युत्पन्नो बोध्य इत्यर्थः। पतिं सुखेन मिश्रयन्ती योषिदुच्यते। अन्ये तु युधातोरौणादिके बाहुलकात्कतिप्रत्यये कित्त्वाद्गुणाऽभावे उवङि उगित्त्वान्ङीपि युवतीशब्दः सिध्यतीत्याहुः।

इति श्रीमद्वासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणम्।

-----------------------

अथ स्वादिसन्धिः।

तत्त्व-बोधिनी
यूनस्तिः ३०७, ४।१।७७

यूनस्तिः। "ऋन्नेभ्यः"इति ङीपोऽपवादः। युवतिरिति। "स्वादिषु---"इति पदत्वान्नलोपः। कथं तर्हि "युवतीकरकोमलनिर्मथित"मिति प्रयोगः। अत्र केचित्--"सर्वतोऽक्तिन्नर्था"दिति बह्वादिगणसूत्राद्वैकल्पिकोऽत्र ङीष्। न च तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वान्ङीष् नभविष्यतीति शङ्क्यम्,---"उक्तेऽपि हि भवन्त्येते"इति भष्यात्। न चैवमपि युवतीनां समूहो "योवत"मिति न सिध्येत्। किं तु "तस्य समूहः"इत्यणि "भस्याढे तद्धिते"इति पुंवद्भावेन "यौवन"मित्येव स्यादिति वांच्यम्, बाहुलकाद्यौतेरौणादिके कतिप्रत्ययेसति युवतिशब्दस्तमादय तत्सिद्धेरिति। इमं क्लेशं परिहारन्नाह---शत्रन्तादिति। यौति मिश्री करोति पत्येति विग्रहे "लटः शतृशानचौ"इति शतरि "उगितश्च"इति ङीप्। एवं हि "यौवत"मिति प्रयोगोऽपि सुलभः। त्यन्तादणि तु पुंवद्भावाद्यौवनमित्येव। "भिक्षादिपाठसामथ्र्यात् पुंव"दिति वृत्तिकारोक्तिरयुक्तेति "भिक्षादिभ्योऽण्ित्यत्रैवोपपादयिष्यामः। *इति तत्त्वबोधिन्यां स्त्रीप्रत्ययप्रकरणम्*

अथ स्वादयः।

षुञ्। सुन्व इति। "लोपश्चास्ये"त्युकारस्य लोपः।